|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.77. अध्यायः 077
Mahabharata - Karna Parva - Chapter Topics
कृष्णेनार्जुनम्प्रति भीष्मादियुद्धनिधनप्रकारानुवादपूर्वकं तेषां वधे तस्यैव मुख्यकारणत्वकथनम्॥ 1 ॥ वाल्यात्प्रभूति दुर्योधनापनयानुस्मराणपूर्वकं सर्वत्र कर्णस्यैव मूलतया महापराधित्वद्योतनेन तस्यावश्यं हननविधानम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-77-0x(5025)(58704)
ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत्।
कृतसङ्कल्पमायान्तं वधे कर्णस्य भारत॥ 8-77-1(58705)
अद्य सप्तदशाहानि वर्तमानस्य नित्यशः।
विनाशस्यातिघोरस्य नरवारणवाजिनाम्॥ 8-77-2(58706)
भूत्वा हि विपुला सेना तावकानां परैः सह।
अन्योन्यं समरं प्राप्य किञ्चिच्छेषा विशाम्पते॥ 8-77-3(58707)
भूत्वा वै कौरवाः पार्थ प्रभूतगजवाजिनः।
त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि॥ 8-77-4(58708)
एते ते पृथिवीपालाः सृञ्जयाश्च समागताः।
त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः॥ 8-77-5(58709)
पाञ्चालैः पाण्डवैर्मात्स्यैः कारूशैश्चेदिभिः सह।
`मगधैः पारिजातैश्च दाक्षिणात्यैः सकेरलैः'।
त्वया गुप्तैरमित्रघ्नैः कृतः शत्रुगणक्षयः॥ 8-77-6(58710)
को हि शक्तो रणे जेतुं कौरवांस्तात संयुगे।
अन्यत्र पाण्डवाद्युद्धे श्वेताश्वाद्वानरध्वजात्॥ 8-77-7(58711)
शक्तस्त्वं हि रणे जेतुं ससुरासुरमानुषान्।
त्रींल्लोकान्समरे युक्तान्किं पुनः कौरवं बलम्॥ 8-77-8(58712)
भगदत्तं च राजानं कोऽन्यः शक्तस्त्वया विना।
जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः॥ 8-77-9(58713)
तथेमां विपुलां सेनां गुप्तां पार्थ त्वयाऽनघ।
न शेकुः पार्थिवाः सर्वे चक्षुर्भिरपि वीक्षितुम्॥ 8-77-10(58714)
तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे।
धृष्टद्युम्नशिखण़्डिभ्यां द्रोणभीष्मौ निपातितौ॥ 8-77-11(58715)
को हि शक्तो रणे पार्थ भारतानां महारथौ।
भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ॥ 8-77-12(58716)
को हि शान्तनवं भीष्मं द्रोणं वैकर्तनं कृपम्।
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च॥ 8-77-13(58717)
सैन्धवं मद्रराजं च राजानं च सुयोधनम्।
वीरान्कृतास्त्रान्समरे सर्वानेवानिवर्तिनः॥ 8-77-14(58718)
अक्षौहिणीपतीनुग्रान्संहतान्युद्धदुर्मदान्।
त्वामृते पुरुषव्याघ्र जेतुं शक्तः पुमानिह॥ 8-77-15(58719)
श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः।
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम्॥ 8-77-16(58720)
गणाश्च दासमीयानां वसातीनां च भारत।
प्राच्यानां वाटधानानां भोजानां चाभिमानिनाम्। 8-77-17(58721)
उदीर्णाश्वगजा सेना सर्वक्षत्रस्य भारत।
त्वां समासाद्य निधनं गता भीमं च भारत॥ 8-77-18(58722)
उग्राश्च भीमकर्माणस्तुषारा यवनाः खशाः।
दार्वाभिसारा दरदाः शका माठरतङ्कणाः॥ 8-77-19(58723)
आन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः।
म्लेच्छाश्च पर्वतीयाश्च सागरानूपवासिनः॥ 8-77-20(58724)
संरम्भिणो युद्धशौण्डा बलिनो दण्डपाणयः॥ 8-77-21(58725)
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह।
न शक्या युधि निर्जेतुं त्वदन्येन परन्तप॥ 8-77-21(58726)
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह।
न शक्या युधि निर्जेतुं त्वदन्येन परन्तप॥ 8-77-22(58727)
धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महद्बलम्।
यदि त्वं न भवेस्त्राता प्रतीयात्को नु मानवः॥ 8-77-23(58728)
तत्सागरमिवोद्वूतं रजसा संवृतं बलम्।
विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो॥ 8-77-24(58729)
मागधानामधिपतिर्जयत्सेनो महाबलः।
अद्य सप्तैव चाहानि हतः सङ्ख्येऽभिमन्युना॥ 8-77-25(58730)
ततो दशसहस्राणि गजानां भीमकर्मणाम्।
जघान गदया भीमस्तस्य राज्ञः परिच्छदम्॥ 8-77-26(58731)
तथान्येऽभिहता नागा रथाश्च शतशो बलात्।
तदेवं समरे पार्थ वर्तमाने महाभये॥ 8-77-27(58732)
भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः।
सवाजिरथमातङ्गा मृत्युलोकमितो गताः॥ 8-77-28(58733)
तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः।
भीष्मः प्रासृजदुग्राणि शरतालानि मारिष॥ 8-77-29(58734)
सचेदिकाशिपाञ्चालान्करूशान्मात्स्यकेकयान्।
शरैः प्रच्छाद्य निधनमनयत्परमास्त्रवित्॥ 8-77-30(58735)
तस्य चापच्युतैर्बाणैः परदेहविदारणैः।
पूर्णमाकाशमभवद्रुक्मपुह्खैरजिह्मगैः॥ 8-77-31(58736)
हन्याद्रथसहस्राणि एकैकेनैव मुष्टिना।
लक्षं नरद्विपान्हत्वा समेतान्समहाबलान्॥ 8-77-32(58737)
गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान्।
हित्वा नवगतीर्दुष्टाः स बाणानाहवेऽत्यजत्॥ 8-77-33(58738)
दिनानि दश भीष्मेण निघ्नता तावकं बलम्।
शून्याः कृता रथोपस्था हताश्च गजवाजिनः॥ 8-77-34(58739)
`दशमेऽहनि सम्प्राप्ते कृत्वा घोरं पराक्रमम्'।
दर्शयित्वाऽऽत्मनो रूपं रुद्रोपेन्द्रसमं युधि॥ 8-77-35(58740)
पाण्डवानामनीकानि प्रविगाह्य विशाम्पते।
विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान्॥ 8-77-36(58741)
अहनत्पाण्डवीं सेनां रथाश्वगजसङ्कुलाम्।
मज्जन्तमप्लुवे मन्दमुज्जिहीर्षुः सुयोधनम्॥ 8-77-37(58742)
तथा चरन्तं समरे तपन्तमिव भास्करम्।
पदातिकोटिसाहस्राः प्रवरायुधपाणयः॥ 8-77-38(58743)
न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः।
विचरन्तं तथा तं तु सङ्ग्रमे जितकाशिनम्॥ 8-77-39(58744)
सर्वोद्यमेन महता पाण्डवान्समभिद्रवत्।
स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि।
एक एव रणे भीष्म एकवीरत्वमागतः॥ 8-77-40(58745)
तं शिखण्डी समासाद्य त्वया गुप्तो महाव्रतम्।
जघान पुरुषव्याघ्रं शरैः सन्नतपर्वभिः॥ 8-77-41(58746)
स एष पतितः शेते शरतल्पे पितामहः।
त्वां प्राप्य पुरुषव्याघ्रं वृत्रः प्राप्येव वासवम्॥ 8-77-42(58747)
द्रोणः पञ्चदिनान्युग्रो विधम्य रिपुवाहिनीम्।
कृत्वा व्यूहमभेद्यं च पातयित्वा महारथान्॥ 8-77-43(58748)
जयद्रथस्य समरे कृत्वा रक्षां महारथः।
अन्तकप्रतिमश्चोग्रो रात्रियुद्धेऽदहत्प्रजाः॥ 8-77-44(58749)
दग्ध्वा योधाञ्छरैर्वीरो भारद्वाजः प्रतापवान्।
धृष्टद्युम्नं समासाद्य स गतः परमां गतिम्॥ 8-77-45(58750)
यदि वाऽद्य भवान्युद्धे सूतपुत्रमुखान्रथान्।
नावारयिष्यः सङ्ग्रामे न स्म द्रोणो व्यनङ्क्ष्यत॥ 8-77-46(58751)
भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम्।
ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय॥ 8-77-47(58752)
कश्च शक्तो रणे कर्तुं त्वदन्यः पुरुषब्रुवः।
यादृशं ते कृतं पार्थ जयद्रथवधं प्रति॥ 8-77-48(58753)
निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान्।
निहतः सैन्धवो राजा त्वयाऽस्त्रबलतेजसा॥ 8-77-49(58754)
आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः।
अनाश्चार्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः॥ 8-77-50(58755)
त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत।
नश्यमानमहं युक्तं मन्येयमिति मे मतिः॥ 8-77-51(58756)
सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे।
हतसर्वस्वभूयिष्ठा भीष्मद्रोणौ हतौ यथा॥ 8-77-52(58757)
शीर्णप्रवरयोधाढ्या हतवाजिरथद्विपा।
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती॥ 8-77-53(58758)
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रम।
आसुरीव महासेना देवराजपराक्रमैः॥ 8-77-54(58759)
तेषां हतावशिष्टास्तु सन्ति पञ्च महारथाः।
द्रौणिश्च कृतवर्मा च कर्णो मद्राधिपः कृपः॥ 8-77-55(58760)
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान्।
हतामित्रः प्रयच्छोर्वी राज्ञे सद्वीपपत्तनाम्॥ 8-77-56(58761)
साकाशजलपातालां सपर्वतमहावनाम्।
प्रयच्छामितवीर्याय पार्थायाद्य वसुन्धराम्॥ 8-77-57(58762)
एतां पुरा विष्णुरिव हत्वा दैतेयदानवान्।
प्रयच्छ मेदिनीं राज्ञे शक्रायैव हरिर्यथा॥ 8-77-58(58763)
अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया।
विष्णुना निहतेष्वेव दानवेयेषु देवताः॥ 8-77-59(58764)
यदि वा द्विपदां श्रेष्ठं द्रोणं मानयतो गुरुम्।
अश्वत्थाम्नि कृपा तेऽस्ति कृपे वाचार्यगौरवात्॥ 8-77-60(58765)
अत्यन्तापचितान्बन्धून्मानयन्मातृबान्धवान्।
कृतवर्माणमासाद्य न नेष्यासि यमक्षयम्॥ 8-77-61(58766)
भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम्।
यदि त्वमरविन्दाक्ष दयावान्न जिघाससि॥ 8-77-62(58767)
एतत्ते सुकृतं कर्म नात्र किञ्चन विद्यते।
वयमप्यनुजानीमो नात्र दोषोऽस्ति कश्चन॥ 8-77-63(58768)
इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति।
कर्णमद्य नरश्रेष्ठ जहि पार्थ शितैः शरैः॥ 8-77-64(58769)
दहने यत्सपुत्राया निशि मातुस्तवानघ।
द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः।
तस्य सर्वस्य दुष्टात्मा कर्णो वै मूलमित्युत॥ 8-77-65(58770)
प्रोत्साहयति दुष्टात्मा धार्तराष्ट्रं सुदुर्मतिम्।
समितौ गदते कर्णस्तमद्य जहि भारत॥ 8-77-66(58771)
यश्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान्।
तस्य सर्वस्य दुर्बुद्धिः कर्णो मूलमिहार्जुन॥ 8-77-67(58772)
कर्णं हि मन्यते त्राणं नित्यमेव सुयोधनः।
ततो मामपि संरब्धो निग्रहीतुं पराक्रमात्॥ 8-77-68(58773)
स्थिता बुद्धिर्नरेन्द्राणां धार्तराष्ट्रस्य चोभयोः।
कर्णः पार्थान्रणे सर्वान्नाशयिष्यति सायकैः॥ 8-77-69(58774)
कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रस्य विग्रहः।
रुचितो भवता सार्धं जानतोऽपि बलं तव॥ 8-77-70(58775)
कर्णो जल्पति वै नित्यमहं पार्थान्समागतान्।
वासुदेवं च दाशार्हं विजेष्यामि महारणे।
समितौ वल्गते कर्णस्तमद्य जहि फल्गुन॥ 8-77-71(58776)
यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रतापवान्।
सभायां कृतवान्नित्यं कर्णमाश्रित्य वै पुरा॥ 8-77-72(58777)
यच्च तं धार्तराष्ट्राणां षड्भिः शूरैर्महारथैः।
पश्यतां संवृतं शूरं सौभद्रमपराजितम्॥ 8-77-73(58778)
द्रोणद्रौणिकृपान्वीरान्कम्पयानं महेषुभिः।
विधमन्तमनीकानि प्रमथन्तं महारथान्॥ 8-77-74(58779)
मनुष्यवाजिमातङ्गान्प्रेषयन्तं यमक्षयम्।
शरैः सौभद्रमायान्तं दहन्तमरिवाहिनीम्॥ 8-77-75(58780)
निर्मनुष्याश्च मातङ्गा विरथाश्च महारथाः।
प्रद्रवन्ति स्म समरे दिशो भीताऽभिमन्यवे॥ 8-77-76(58781)
विगतासूंश्च तुरगान्पत्तीन्व्यायुधजीवितान्।
कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम्।
तन्मे दहति गात्राणि सखे सत्येन ते शपे॥ 8-77-77(58782)
यत्तदासीत्सुदुष्टात्मा कर्णो विनिहतः प्रभुः।
न शक्तो ह्यभिमन्योस्तु कर्णः स्थातुं रणाग्रतः॥ 8-77-78(58783)
सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः।
निश्वसन्क्रोधसन्दीप्तो विमुखः सायकार्दितः॥ 8-77-79(58784)
तस्थौ स विह्वलः सङ्ख्ये प्रहारजनितच्छविः।
अपयानकृतोत्साहो निरुत्साहश्च भारत॥ 8-77-80(58785)
दुर्योधनं रणे दृष्ट्वा लज्जमानो मुहुर्मुहुः।
नापयासीत्तततः पार्थ सोऽभिमन्योर्महारणे॥ 8-77-81(58786)
दृष्ट्वा द्रोणं वधोपायमभिमन्योश्च पृष्टवान्।
श्रुत्वा द्रोणवचः क्रूरं ततश्चिच्छेद कार्मुकम्॥ 8-77-82(58787)
ततश्छिन्नायुधं तेन दृष्ट्वा पञ्च महारथाः।
स चैव निकृतिप्राज्ञः प्राहिणोच्छरवृष्टिभिः॥ 8-77-83(58788)
प्रहसन्स तु दुष्टात्मा कर्णो राजा च कौरवः।
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः।
प्रमुखे पाण्डवेयानां कुरूणां चैव पश्यताम्॥ 8-77-84(58789)
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः।
पतिमन्यं पृथुश्रोणि वृणीष्व मृदुभाषिणि॥ 8-77-85(58790)
एषा त्वं धृतराष्ट्रस्य दासीभूता निवेशनम्।
प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव॥ 8-77-86(58791)
न पाण्डवाः प्रभवन्ति तव कृष्णे कथञ्चन।
दासभार्या च पाञ्चालि स्वयं दासी च शोभने॥ 8-77-87(58792)
अद्य दुर्योधनो राजा पृथिव्यां नृपतिः स्मृतः।
सर्वे चास्य महिपाला योगक्षेममुपासते॥ 8-77-88(58793)
पश्येदानीं यदा भद्रे निविष्टाः पाण्डवाः समम्।
अन्योन्यं समुदीक्षन्ते धार्तराष्ट्रस्य तेजसा॥ 8-77-89(58794)
व्यक्तं षण्डतिला ह्येते नरके च निमज्जिताः।
प्रेष्यवच्चापि राजानमुपस्थास्यन्ति कौरवम्॥ 8-77-90(58795)
उक्तवान्स च पातात्मा तथा परमदुर्मतिः।
पापः पापवचः कर्णः पश्यतस्ते धनञ्जय॥ 8-77-91(58796)
अस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः।
शमयन्ति शिलाधौता नाशयन्तोऽस्य जीवितम्॥ 8-77-92(58797)
अद्य कर्णं रणे ग्रस्तं पश्यन्तु कुरवस्त्वया।
स्वर्गावतरणे यत्नं स्वर्गद्वारगतं यथा॥ 8-77-93(58798)
अद्य ते समरे वीर्यं पश्यन्तु कुरुयोधिनः।
सूतपुत्रे हते पार्थ जानन्तु त्वां महारथम्॥ 8-77-94(58799)
अद्य काकवला गृध्रा वायसा जम्बुकास्तथा।
विप्रकर्षन्तु गात्राणि सूतपुत्रस्य मारिष॥ 8-77-95(58800)
अद्याधिरथिराक्षिप्तो निहतश्च त्वया रणे।
कुरूणां शोकमाधत्तां पाण्वानां मुदं तदा॥ 8-77-96(58801)
अद्य त्वां प्रतिमर्दन्तु पाञ्चालाः पाण्डवैः सह।
यथा वृत्रवधे वृत्ते देवाः सर्वे शतक्रतुम्॥ 8-77-97(58802)
अद्य कर्णं रणे हत्वा प्राप्य चैवोत्तमं यशः।
विशोको विज्वरः पार्थ भव बन्धुपुरस्कृतः॥ 8-77-98(58803)
नरसिंहवपुः कृत्वा यथा शस्तो महासुरः।
हिरण्यकशिपुर्दैत्यो विष्णुना प्रभविष्णुना॥ 8-77-99(58804)
तथा त्वमपि राधेयं घोरां कृत्वा महातनुम्।
जहि युद्धे महाबाहो त्रायस्व च भयात्स्वकान्॥ 8-77-10(58805)
कर्णं हाहाकृतं दीनं विषण्णं त्वच्छरार्दितम्।
प्रपतन्तं महीं कर्णं पश्यन्तु वसुधाधिपाः॥ 8-77-10(58806)
तं च स्वशोणिते मग्नं शयानं पतितं भुवि।
अपविद्धायुकधं कर्णमद्य पश्यन्तु बान्धवाः॥ 8-77-10(58807)
तच्चैवाद्य महत्कर्म गाण्डीवप्रेषितैः शरैः।
रथोपस्थे विशीर्येत ताराराज इवाम्बरात्॥ 8-77-10(58808)
आशु चाद्य शरास्तस्य सम्पतन्तो महाजवैः।
त्वच्छरैः सन्निकृत्ताग्रा विशीर्यन्ते महीतले॥ 8-77-10(58809)
त्वया चाद्य हते तस्य विक्रमे भरतर्षभ।
विमुखाः सर्वराजानो भवन्तु गतजीविताः॥ 8-77-10(58810)
तथा चाधिरथौ याते प्रयान्तु कुरवो दिशः।
मन्वानास्तं रथश्रेष्ठं सर्वलोकेषु धन्विनाम्॥ 8-77-10(58811)
स वै चाद्य भयात्त्यक्त्वा धार्तराष्ट्रो महाचमूम्।
दुर्योधनो भयोद्विग्नो द्रवतु स्वं निवेशनम्॥ 8-77-10(58812)
तथा चाद्य हतं श्रुत्वा धृतराष्ट्रो जनेश्वरः।
क्षणेन निपतेद्भूमौ विसंज्ञो वै महीपतिः॥ 8-77-10(58813)
अद्य जानन्तु ते पार्थ विक्रमं सर्वयोधिनः।
यदुवाच सभामध्ये परुषं भारत त्वयि॥ 8-77-10(58814)
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि।
तान्यद्य भरतश्रेष्ठ नाशयन्तु शरास्तव॥ 8-77-10(58815)
शान्तिं कुरु परिक्लेशा कृष्णायाः शत्रुपातन।
हत्वा शत्रुं रणे श्लाघ्यं गर्जन्तमतिपौरुषम्॥ 8-77-10(58816)
अद्य चाधिरथिर्वेद्धस्तव बाणैः समन्ततः।
मन्यतां त्वां नरव्याघ्र प्रवरं सर्वधन्विनाम्॥ 8-77-10(58817)
गाण्डीवप्रसृतान्वाणानद्य गात्रस्पृशः शरान्।
यातु कर्णो रणे पार्थ श्वाविच्छललतो यथा॥ 8-77-10(58818)
तं कथं कर्णमासाद्य विद्रवेयुर्महारथाः।
यस्त्वेकः सर्वपाञ्चालानहन्यहनि नाशयन्।
कालवच्चरते वीर पाञ्चालानां रथव्रजे॥ 8-77-10(58819)
तमप्यासाद्य समरे मित्रार्थे मित्रवत्सल।
तथा ज्वलन्तमस्त्रैश्च शूरं सर्वधनुष्मताम्।
निर्दहन्तं समारूढं दुर्धर्षं द्रोणमञ्जसा॥ 8-77-10(58820)
ते नित्यमुदिता जेतुं युधि शत्रुमरिन्दमाः।
न चेदाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः॥ 8-77-10(58821)
तेषामापततां शूरः पाञ्चालानां तरस्विनाम्।
आदत्तासूञ्शरैः कर्णः पतङ्गानामिवानलः॥ 8-77-10(58822)
एते द्रवन्ति पाञ्चाला द्राव्यन्ते योधिभिर्ध्रुवम्।
कर्णेन भरतश्रेष्ठ पश्यपश्य तथाकृतान्॥ 8-77-10(58823)
तान्समारोहतः शूरान्मित्रार्थे त्यक्तजीवितान्।
निस्तारय महाबाहो कर्णास्त्रात्पावकोपमात्॥ 8-77-10(58824)
अस्त्रं हिरामात्कर्णेन भार्गवादृषिसत्तमात्।
यदवाप्तं तदा घोरं तस्य रूपमुदीर्यते॥ 8-77-10(58825)
तापनं सर्वसैन्यस्य घोररूपं भयानकम्।
यमाश्रित्य महासेना ज्वलते स्वेन तेजसा॥ 8-77-10(58826)
एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः।
प्रभया इह शत्रूणां घातयन्तो जनान्प्रभो॥ 8-77-10(58827)
एते भ्रमन्ति पाञ्चाला उत्क्रयन्ति च मारिष।
कर्णास्त्रं समरे प्राप्य दुर्निवार्यं महात्मभिः॥ 8-77-10(58828)
एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः।
सृञ्जयैर्योऽजयत्कर्णं पीड्यते निशितैः शरैः॥ 8-77-10(58829)
पाञ्चालान्सृञ्जयांश्चैव पाण्डवांश्चैव भारत।
उपेक्षितो दहेत्कर्णो रोगो देहमिवान्तकः॥ 8-77-10(58830)
नान्यं त्वत्तो हि पश्यामि योधं यौधिष्ठिरे बले।
यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहान्॥ 8-77-10(58831)
तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ।
यथा प्रतिज्ञां त्व पार्थ तीर्त्वा कीर्तिमवाप्स्यसि॥ 8-77-10(58832)
त्वं हि शक्तो रणे कर्णं विजेतुं सह पार्थिवैः।
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते॥ 8-77-10(58833)
एतत्कृत्वा महत्कार्म हत्वा कर्णं महारथम्।
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम॥ ॥ 8-77-10(58834)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तसप्ततितमोऽध्यायः॥ 77 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-77-23 यदि त्वं त्राता न भवेस्तर्हि तद्धार्तराष्ट्रं बलं कोनु प्रतीयाद्गच्छेदिति सम्बन्धः॥ 8-77-51 त्वांहीति। क्षणेन सर्वं भस्मीकर्तुं समर्थं त्वां प्राप्य एकाहान्नश्यमानं क्षत्रं युक्तं बलवत्तरं मन्येयं जानीयाम्। क्षणेन नाश्यमपि पूर्णैकाहपर्यन्तं स्थायित्वादिति भावः॥ 8-77-111 परिक्लेशा परिक्लेशानाम्॥ 8-77-77 सप्तसप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|